whatsapp support
Whatsapp Channel
Contact
Oct 22, 2024
संस्कृतभूम्यः

भारते संस्कृता भाषा कामधेनुः प्रकीर्तिता।

जननी विश्वभाषाणां विज्ञानस्योपकारीणि॥

सत्यं खलु यत् संस्कृतभाषा विज्ञानस्योपकारीणि। अस्यां भाषायां साहित्यस्य या नवविधता भवति सा अन्यत्र तु सुदुर्लभा। अतः एव अस्याः संवर्धनं आवश्यकम्। युगेsस्मिन् यदा भारते अपि आङ्ग्लभाषायाः श्रेष्ठत्वं वर्तते, तदा कः नित्यं संस्कृताभाषाध्ययनं कृत्वा अस्यामेव भाषायां सम्भाषणं करिष्यति? अस्य उत्तरम् आरम्भे तु मनसि ‘न कोsपि’ एवमेव जायते किन्तु आश्चर्येण सौभाग्येन च अस्य उत्तरं तु भिन्नमस्ति। भारते नैकाः नगर्यः सन्ति यत्र जनाः अद्यापि तेषां नित्यव्यवहारः संस्कृतभाषायामेव कुर्वन्ति। जानीमः किंचित् तेषां विषये।

मत्तुरः, कर्णाटक

एषा नगरी तु सुप्रसिद्धा खलु। समाजिकमाध्यमेषु अपि अस्य प्रचारः अभवत्। एषा कर्णाटकप्रान्तस्य शिमोगानगरस्थिता नगरी। अत्र ५००० जनाः निवसन्ति अनायासेन संस्कृतसम्भाषणं कुर्वन्ति च।

होसा हल्ली, कर्णाटक

एषा अपि कर्णाटकस्थिता, मत्तुरनगर्याः भगिनीव तुङ्गानद्याः समीपे एव तिष्ठति। न केवलं भारते अपि च विदेशे अपि एते नगर्यौ प्रसिद्धे स्तः। 

झिरी, मध्यप्रदेश

एषा नगरी मध्यपदेशस्य राजगडनगरे स्थिता। अस्याः भित्तयः तु संस्कृतवाक्यैः सुशोभिताः। अत्र सर्वेषु समारम्भेषु संस्कृतागीतानि प्रस्तुत्य एव समारम्भः सम्पन्नः भवति।

सासना, ओदिशा 

ओदिशाराज्ये स्थिता एषा नगरी अद्य अपि संस्कृतपण्डितबहुला खलु। अत्रापि जनाः बालकान् संस्कृतशिक्षार्थं प्रोत्साहयति नित्यव्यवहारः संस्कृतभाषायां एव कुर्वन्ति च। 

गनोदा, राजस्थान

एषा नगरी राजस्थानराज्यस्य बंसवारानगरे स्थिता। पूर्वं जनाः अत्र वागादीभाषायां व्यवहारः अकुर्वन् किन्तु यथाकालं सर्वे संस्कृतभाषायां पार्ङ्गताः अभवन् अपि च संस्कृतभाषायामेव नित्यव्यवहारः कुर्वन्ति।
 

तर्हि का प्रतिक्षा अधुना!! शीघ्रमेव यात्रायोजनं कृत्वा न्यूनतमम् एकस्यां नगर्यां निश्चितरुपेण गच्छन्तु।

नेहा

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः। नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।। आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः। नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।।