whatsapp support
Whatsapp Channel
Contact
Jan 19, 2023
बालानां मस्तिष्के संस्कृतस्य प्रभावः ।

संकृतं पुरातन-भाषा अस्ति । पूर्वतनकाले भारते तु सा राजभाषा आसीत् । कालिदसादीनां काले तु तस्याः औत्तुङ्गं वयं ज्ञातुं शक्नुमः । महाकविकालिदासः तु संस्कृते अतीव-श्रद्धालुः आसीत् । यतः एषा भाषा समृद्धा भाषास्ति । 

   पूर्वतनकाले गुरुकुलपद्धत्या एव पाठनादिकं भवति स्म । यदि छात्रः अध्येतुम् इच्छति तर्हि गुरुकुलण् गन्तव्यम् । तदा गुरुकुलं प्रवेष्टुमपि निबन्धनानि आसन् । सः वटुः अवश्यं उपनयनसंस्कारेण पूरितः भवेत् । यदा सः गुरुकुलं गच्छति तदानीम् एव पाठनं न भवति । तत्र गुरुसेवा कर्तव्या । यदि गुरुः इच्छति तर्हि एव पाठयति अन्यथा न । वटोः बहुविधपरीक्षाः अपि भवन्ति स्म । यथा उत्तङ्कस्य कथां पठन्ति चेत् अवगच्छन्ति । अत एव उक्तिः अस्ति ‘सुपात्राय विद्या देया ’ इति ।

केवलं पुस्तकीय-ज्ञानम् एव न यच्छति अपि तु गोसेवा कथं कर्तव्या, कथं  गोदोहनं भवति ? गुरुसेवा कथं कर्तव्या ? क्षेत्रे कृषिकार्यं कथं भवति ? समाजे कथं भाव्यम् इत्यपि पाठयति गुरुकुलस्य जीवनम् । किन्तु अद्यत्वे तथा गुरुकुलविद्यालयाः न्योनाः सन्ति । अत एव सामन्यविद्यालयेषु अपि शिक्षणं प्रचलति । शिक्षणेन सह संस्कृतभाषायाः अपि पाठनं भवति । 

    संस्कृतभाषाध्ययनेन बहु लाभाः सन्ति । भाषायां अपूर्वपदराशिः वर्तते । यावन्ति पदानि संस्कृते सन्ति तावन्ति पदानि अन्यत्र प्रायः न मिलन्ति । इदं पदजालं बालानां मनः आकर्षति । संस्कृतभाषाध्ययनेन बालः कामपि भाषां सुलभतया उच्चर्तुं शक्नोति । यदि बालः केवलम् आङ्ग्लभाषाम् एव सर्वदा वदति तर्हि सः भारतीयभाषया वक्तुं कष्टं भवति । यदि संस्कृतं जानाति तर्हि सामान्यतया ६ भारतीयभाषाः सुलभेन आयान्ति ।  संस्कृतं श्रुण्वन्ति चेत् मनसि आह्लादकता आगच्छति ।

    यदि प्रतिदिनम्  ॐकारं वदन्ति तर्हि रुणात्मकचिन्तनम् अस्मात् दूरं गच्छति । संस्कृतश्लोकानां पाठनं बाल्ये भवति चेत् जीवनमूल्यानि अवगन्तुं शक्यन्ते । यदि स्तोत्राणि विष्णुसहस्रनाम इत्यादि प्रत्यहं जपन्ति तर्हि मानसिकसन्तोषः लभ्यते । गृहे मन्त्रपठनेन धनात्मक-चिन्तनं गृहमावृणोति । प्रतिदिनं संस्कृतपठनेन कण्ठस्थीकरणसामार्थ्यं वर्धते बालस्य । यावत् ज्ञानं संस्कृते अस्ति तावत् अन्यत्र कुत्रापि नास्ति । अतः बाल्यकाले एव संस्कृत अध्ययनेन गूढान् संस्कृतविचारान् काले गते बुद्धौ विकसिते अवगन्तुं शक्नोति । अतः सः बालः ज्ञानि अवश्यं भवति । अस्माकं संस्कृतिः सम्प्रदायः च संस्कृतभाषायाम् एव वर्तते । अतः एतस्य अध्ययनेन सः बालः अग्रे गत्वा आयुर्वेदीयः वैद्यः अपि भवितुं शक्नोति ।

  कालपरिवर्तनेन सह मनुष्यस्य चिन्तनानां परिवर्तनमपि भवति । अतः सामान्यतया पुरातपद्धतिः संस्कृतयः च समीचीनाः न सन्ति इति वदन्ति । अतः तत्सर्वं ज्ञातुं वा संस्कृतम् अपेक्षते एव । भारतीयाः भारतीयजनाः वदन्ति चेत् न शृण्वन्ति परदेशीयाः यदा आगत्य वदन्ति तदा एव वयं सर्वम् अवगच्छामः ।

  • विनयकुमार भागवत

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः। नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।। आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः। नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।।