whatsapp support
Whatsapp Channel
Contact
Aug 03, 2023
Sanskrit and Prayanama

संस्कृतं प्राणायामः च ।

संस्करोति इति संस्कृतम् । सा भाषा अस्माकं माता अस्ति । एतस्यां भाषायां सर्वाणि शास्त्राणि सन्ति । यथा व्याकरणशास्त्रं पणिनिमहर्षिणा रचितं बहु-प्रसिद्धम् । महर्षेः प्राक् अपि व्याकरणशास्त्रम् आसीत्, यथा ऐन्द्रं चान्द्रं काषकृत्स्नम् इत्यादि व्याकरणानि आसन् । किन्तु जनानां कृते सुलभमासीत् पाणिनीयव्याकरणम् एव । 

   एवं सर्वाणि शास्त्राणि अत्र सन्ति । साहित्यशास्त्रं प्रविषन्ति चेत् कालिदास-भासादीनां नाटकानि प्रसिद्धानि सन्ति । न्यायशास्त्रं पठन्ति चेत् अन्नंभट्टस्य तर्कसङ्ग्रहग्रन्थः अस्ति । किरणावली-इत्यादयः ग्रन्थाः अपि प्रसिद्धाः । यदि ज्योतिष्-शात्रं पठन्ति – लघुजातकम्, बृहज्जातकम्, लीलावती इत्यादयः ग्रन्थाः सन्ति । एतेषु ग्रन्थेषु ग्रहाणां विषये विद्यते । कथं ग्रहाणां प्रभावः मानवजीवने भवति । ग्राहाणां चलनं कथमस्ति इत्यादयः अंशाः विज्ञानमिव निरूपिताः । यथा नाम एव वदति ज्योतिर्विज्ञानम् इति । वेदान्तशात्रमिति एकम् शास्त्रम् । एतस्य उत्तरमीमांसा- शास्त्रमित्यपि नाम विद्यते । अत्र भगवद्गीता तस्याः भाष्यं च वर्तते मूलस्थम्भरूपेण ।

   इतराणि शास्त्राणि सन्ति । विमानयानशास्त्रम् , लौहमिश्रणशास्त्रम्, साङ्ख्यशास्त्रम् योगशास्त्रम् इत्यादयः । यथा इस्रो,हेच्-ए-एल् इत्यादिषु स्थानेषु अपि संस्कृतग्रन्थानाम् उपयोगः अस्ति एव । 

    अत्र भारतीयग्रन्थेषु अद्यत्वे वैदेशिकाः अत्यधिकरूपेण कमपि ग्रन्थम् पठन्ति चेत् सः ग्रन्थः अस्ति योगशास्त्रग्रन्थः । पतञ्जलिमहर्षिः योगशास्त्रस्य रचयिता अस्ति । अत्र अष्टौ अङ्गानि सन्ति ।

यमः 

नियमः 

आसनम् 

प्राणायामः 

प्रत्याहारः 

धारणम् 

ध्यानम् 

समाधिः इति ।

एतेषु प्राणायामः प्रमुखं पात्रं दर्शयति । कोSपि जनः दैहिकरूपेण व्यायामादिकं कर्तुं न शक्नोति तर्हि श्वाससम्बद्धं योगाङ्गं प्राणायामं, मुद्राणामभासं कर्तुम् अर्हति । एतस्य एव मेडिटेशन् इति आङ्ग्लभाषायां नाम अस्ति । अनेन श्वाससम्बद्धरोगाणां निवारणम् भवति । एकाग्रता अपि वर्धते । प्राणानाम् आयामः एव प्राणायामः स्वाससम्बद्धः । 

  अमन्त्रमक्षरं नास्ति , नास्ति मूलमनौषधम् ।

अयोग्यः पुरुषः नास्ति, योजकः तत्र दुर्लभः ॥

  अनेन श्लोकेन एव ज्ञायते यत् संस्कृत-भाषायां प्रत्येकम् अक्षरमपि मत्रसदृशम् । तेन आरोग्यस्य उपरि सुपरिणामः पतति । अतः यदा प्राणायामं कुर्वन्ति अथवा ध्यानं कुर्वन्ति तदा ओम् इति पदस्य पुनः पुनः उच्चारणं कुर्वन्ति । तेन एकत्र एव मनः केन्द्रीकर्तुं सहाय्यं भवति । 

   एवं अस्माकं जीवने संस्कृतम् अथवा प्राणायामः वा भवतु देहाय उत्तमम् एव । 

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः। नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।। आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः। नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।।