संस्कृतं नम देववाणी अस्ति । अतः सर्वे वेदाः पुराणानि च संस्कृते एव वर्तन्ते । एषा भाषा तु अनेकासां भाषाणां जननी अपि अस्ति । प्रायः भारतीयासु सर्वासु भाषासु संस्कृतपदानि मिलन्ति ।
संस्कृतभाषायां यदि क्रीडाः भवन्ति तर्हि कथं वर्तते इति चिन्तयामः चेत् रोमाञ्चः भवति । यतः अस्माकं प्रिया भाषा इयम् । अत्र बहुरूपेण क्रीडितुम् अवकाशः अस्ति । यथा – सङ्ख्याक्रीडाः ।
अद्यत्वे केषुचित् प्रदेशेषु क्रिकेट्-क्रिडायाः समये अपि संस्कृते विवरणं यच्छन्तः सन्ति । सद्यः एव श्री नरेन्द्रमोदि-वर्यैः अपि एषः विषयः श्लाघितः । एवं रीत्या क्रीडायाम् अपि संस्कृतं वर्तते ।
तथैव संस्कृतं क्रीडमाध्यमेन अपि पठितुं शक्यते । तदेव गेमिफिकेशन् इति वदामः । यथा क्रीडाः मनोल्लासं यच्छन्ति । यदि व्यक्तिः तेन सह अध्ययनमपि करोति तदा ज्ञानं शीघ्रं प्राप्नोति । उदा – बालः संस्कृतस्य पदपुञ्जेन सह क्रीडति चेत् तस्य ज्ञानं वर्धते एव । अतः इदानीन्तनं अप्लिकेशन्स् साहाय्यं कुर्वन्ति । यथा ‘ बालाः सर्वे क्रीडासक्ताः’ इति वाक्यमेव अस्ति । अतः यावत् क्रीडया बालेभ्यः पाठयति तावत् उत्तमम् ।
समान्याः बालाः सर्वदा क्रीडायामेव भवितुम् इच्छन्ति । अग्रे गत्वा ते पुस्तकमपि पठेयुः, किन्तु यदि साक्षात् बालेभ्यः पुस्तकं यच्छन्ति चेत् बालाः अध्ययनात् विरमन्ते । अतः प्रथमं शिक्षकः तेषां मार्गे एव गच्छेत् तदा एव समयात् परं बालाः पुस्तकं प्रति आगच्छन्ति । तेषां कृते क्रीडया एव पाठनीयम् ।
सर्वे जनाः अद्य दूरवाणीं विना न जीवन्ति, कदाचित् अन्नं जलं विना अपि जीवेयुः । अन्तर्जालस्य अपेक्षा तु सर्वत्र वर्तते एव । अतः सर्वे दूरवाणीदर्शने एव व्यस्ताः भवन्ति । अतः जनाः यत् पश्यन्ति तत्रैव क्रीडामाध्यमेन संस्कृतं पाठनीयम् । केचन क्रीडां न इच्छन्ति तेषां कृते पदबन्धः अथवा सामान्यज्ञानस्य संस्कृतप्रश्नाः भवन्ति चेत् सम्यक् ।
पूर्वं भारते गुरुकुलपद्धत्या एव संस्कृतं अथवा अन्यान् विषयान् पाठयन्ति स्म । परन्तु अद्यत्वे मातापितरौ अपि विदेशीय शिक्षणपद्धतीं दृष्ट्वा वदन्ति यत् मम पुत्रः अथवा पुत्री सन्तोषेण अध्ययनं कुर्यात् यथा विदेशेषु कारयन्ति इति । परन्तु पृष्टे सति केचन वदन्ति भारतीयगुरुकुलपद्धतिः स्रेष्ठा आसीत् इति । अतः श्रद्धया अध्ययनं भवेत् ।
क्रीडामाध्यमेन शिक्षणम् अथवा संस्कृतपाठनं सम्यक् एव । यतः बालः अथवा जनः शीघ्रम् अवगच्छति पुनः तस्य कृते तस्याः भाषयाः वातावरणमपि मिलति ।
जयतु संस्कृतम् ॥
विनयकुमार भागवत